(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.48. अध्यायः 048
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति श्रीकृष्णमहिमादिप्रतिपादकानामर्जुनवचसां विस्तरेण कथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

धृतराष्ट्र उवाच। 5-48-0x(3542)(33572)
पृच्छामि त्वां सञ्जय राजमध्ये
किमब्रवीद्वाक्यमदीनसत्वः।
धनञ्जयस्तात युधां प्रेणता
दुरात्मनां जीवितच्छिन्महात्मा ॥ 5-48-1(33573)
सञ्जय उवाच। 5-48-2x(3543)
दुर्योधनो वाचमिमां श्रृणोतु
यदब्रवीदर्जुनो योत्स्यमानः।
युधिष्ठिरस्यानुमते महात्मा
धनञ्जयः श्रृण्वतः केशवस्य ॥ 5-48-2(33574)
अवित्रस्तो बाहुवीर्यं विजान-
न्नुपह्वरे वासुदेवस्य धीरः।
अवोचन्मां योत्स्यमानः किरीटी
मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥ 5-48-3(33575)
संश्रृण्वतस्तस्य दुर्भाषिणो वै
दुरात्मनः सूतपुत्रस्य सूत।
यो योद्धुमाशंसति मां सदैव
मन्दप्रज्ञः कालपक्वोऽतिमूढः ॥ 5-48-4(33576)
ये वै राजानः पाण्डवायोधनाय
समानीताः श्रृण्वतां चापि तेषाम् ।
यथा समग्रं वचनं मयोक्तं
सहामात्यं श्रावयेथा नृपं तत ॥ 5-48-5(33577)
यथा नूनं देवराजस्य देवाः
शुश्रूषन्ते वज्रहस्तस्य सर्वे।
तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च
किरीटिना वाचमुक्तां समर्थाम् ॥ 5-48-6(33578)
इत्यब्रवीदर्जुनो योत्स्यमानो
गाण्डीवधन्वा लोहितपद्मनेत्रः।
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो
यधिष्ठिरस्याजमीढस्य राज्ञः ॥ 5-48-7(33579)
अस्ति नूनं कर्म कृतं पुरस्ता-
दनिर्विष्टं पापकं धार्तराष्ट्रैः।
येषां युद्धं भीमसेनार्जुनाभ्यां
तथाश्विभ्यां वासुदेवेन चैव ॥ 5-48-8(33580)
शैनयेन ध्रुवमात्तायुधेन
धृष्टद्युम्नेनाथ शिखण्डिना च।
युधिष्ठिरेणेन्द्रकल्पेन चैव
योऽपध्यानान्निर्दहेद्गां दिवं च ॥ 5-48-9(33581)
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो
निर्वृत्तोऽर्थः सकलः पाण्डवानाम्।
मा तत्कार्षीः पाण्डवस्यार्थहेतो-
रुपैहि युद्धं यदि मन्यसे त्वम् ॥ 5-48-10(33582)
यां तां वने दुःखशय्यामवात्सी-
त्प्रव्राजितः पाण्डवो धर्मचारी।
आप्नोतु तां दुःखतरामनर्था-
मन्त्यां शय्यां धार्तराष्ट्रः पराशुः ॥ 5-48-11(33583)
ह्रिया ज्ञानेन तपसा दमेन
शौर्येणाथो धर्मगुप्त्या धनेन।
अन्यायवृत्तिः कुरु पाण्डवे या-
नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥ 5-48-12(33584)
मायोपधं प्रतिधानार्जवाभ्यां
तपोदमाभ्यां धर्मगुप्त्या बलेन।
सत्यं ब्रुवन्प्रतिपन्नो नृपो न-
स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥ 5-48-13(33585)
यदा ज्येष्ठः पाण्डवः संशितात्मा
क्रोधं यत्तं वर्षपूगान्सुघोरम्।
अवस्त्रष्टा कुरुपूद्वृत्तचेता-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-14(33586)
कृष्णवर्त्मेव ज्वलितः समिद्धो
यथा दहेत्कक्षमग्निर्निदाघे।
एवं दग्धा धार्तराष्ट्रस्य सेनां
युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य ॥ 5-48-15(33587)
यदा द्रष्टा भीमसेनं रथस्यं
गदाहस्तं क्रोधविषं वमन्तम्।
अमर्षणं पाण्डवं भीमवेगं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-16(33588)
सेनागगं दंशितं भीमसेनं
सुलक्षणं वीरहणं परेषाम्।
घ्नन्तं चमूमन्तकसन्निकाशं
तदा स्मर्ता वचनस्यातिमानी ॥ 5-48-17(33589)
यदा द्रष्टा भीमसेनेन नागा-
न्निपातितान्गिरिकूटप्रकाशान्।
किम्भैरिवासृग्वमतो भिन्नकुम्भां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-18(33590)
महासिंहो गा इव संप्रविश्य
गदापाणिर्धार्तराष्ट्रानुपेत्य।
यदा भीमो भीमरूपो निहन्ता
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-19(33591)
महाभये वीतभयः कृतास्त्रः
समागमे शत्रुबलावमर्दी।
सकृद्रथेनाप्रतिमान्रथौघा-
न्पदातिसङ्घान्गदयाभिनिघ्नन् ॥ 5-48-20(33592)
सैन्याननेकांस्तरसा विगृह्ण-
न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्।
छिन्दन्वनं परशुनेव शूर-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-21(33593)
तृणप्रायं ज्वलनेनेव दग्धं
ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य।
पक्वं सस्यं वैद्युतेनेव दग्धं
परासिक्तं विपुलं स्वं बलौघम् ॥ 5-48-22(33594)
हतप्रवीरं विमुखं भयार्तं
पराङ्मुखं प्रायशोऽनष्टयोधम्।
शस्त्रार्चिषा भिमसेनेन दग्धं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ॥ 5-48-23(33595)
उपासङ्गानाचरेद्दक्षिणेन
वराङ्गानां नकुलश्चित्रयोधी।
यदा रथाग्र्यो रथिनः प्रचेता
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-24(33596)
सुखोचितो दुःखशय्यां वनेषु
दीर्घं कालं नकुलो यामशेत।
आशीविषः क्रुद्ध इवोद्वमन्विषं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-25(33597)
त्यक्तात्मानः पार्थिवायोधनाय
समादिष्टा धर्मराजेन सूत।
रथैः शुभ्रैः सैन्यमभिद्रवन्तो
दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥ 5-48-26(33598)
शिशून्कृतास्त्रानशिशुप्रकाशान्
यदा द्रष्टा कौरवः पञ्च शूरान्।
त्यक्त्वा प्राणान्कौरवानाद्रवन्त-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ 5-48-27(33599)
यथा शक्रो दानवनाशनार्थं
सुवर्णतारं रथमुत्तमाश्वैः।
दान्तैर्युक्तं सहदेवोऽधिरूढः
शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥ 5-48-28(33600)
महाभये संप्रवृत्ते रथस्थं
विवर्तमानं समरे कृतास्त्रम्।
सर्वा दिशः सपतन्तं समीक्ष्य
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-29(33601)
ह्रीनिषेवो निपुणः सत्यवादी
महाबलः सर्वधर्मोपपन्नः।
गान्धारिमार्छंस्तुमुले क्षिप्रकारी
क्षेप्ता जनान्सहदेवस्तरस्वी ॥ 5-48-30(33602)
यदा द्रष्टा द्रौपदेयान्महेषून्
शूरान्कृतास्त्रान्रथयुद्धकोविदान्।
आशीविषान्घोरविषानिवायत-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-31(33603)
यदाभिमन्युः परवीरघाती
शरैः परान्मेघ इवाभिवर्षन्।
विगाहिता कृष्णसमः कृतास्त्र-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-32(33604)
यदा द्रष्टा बालमबालवीर्यं
द्विषच्चमूं मृत्युमिवोत्पतन्तम्।
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-33(33605)
प्रभद्रकाः शीघ्रतरा युवानो
विशारदाः सिंहसमानवीर्याः।
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-34(33606)
वृद्धौ विराटद्रुपदौ महारथौ
पथक्कमूभ्यामभिवर्तमानौ।
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-35(33607)
यदा कृतास्त्रो द्रुपदः प्रचिन्वन्
शिरांसि यूनां समरे रथस्थः।
क्रूद्धः शरैश्छेत्स्यति चापमुक्तै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-36(33608)
यदा विराटः परवीरघाती
रथान्तरे शत्रुचमूं प्रवेष्टा।
मात्स्यैः सार्धमनृशंसरूपै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-37(33609)
ज्येष्ठं मात्स्यमनृसंसार्यरूपं
विराटपुत्रं रथिनं पुरस्तात्।
यदा द्रष्टा दंशतिं पाण्डवार्थे
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-38(33610)
रणे हते कौरवाणां प्रवीरे
शिखण्डिना शन्तनोर्वै तनूजे।
न जातु नः शत्रवो धारयेयु-
रशंशयं सत्यमेतद्ब्रवीति ॥ 5-48-39(33611)
यदा शिखण्डी रथिनः प्रचिन्वन्
भीष्मं रथेनाभियाता वरूथी।
दिव्यैर्हयैरवमृद्गन् रथौघां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-40(33612)
यदा द्रष्टा सृञ्जयानामनीके
धृष्टद्नुम्नं प्रमुखे रोचमानम्।
अस्त्रं यस्मै गुह्यमुवाच धीमा-
न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥ 5-48-41(33613)
यदा स सेनापतिरप्रमेयः
परामृद्गन्निषुभिर्धार्तराष्ट्रान्।
द्रोणं रणे शत्रुसहोभियाता
तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-42(33614)
ह्रीमान्मनीपी बलवान्मनस्वी
स लक्ष्मीवान्सोमकानां प्रबर्हः ।
न जातु तं शत्रवोऽन्ये सहेर-
न्योपां स स्यादग्रणीर्वृष्णिसिंहः ॥ 5-48-43(33615)
इदं च ब्रूया मा वृणीष्वेति लोके
युद्धेऽद्वितीयं सचिवं रथस्थम्।
शिनेर्नप्तारं प्रवृणीम सात्यकिं
महाबलं वीतभयं कृतास्त्रम् ॥ 5-48-44(33616)
महोरस्को दीर्घबाहुः प्रमाथी
युद्धेऽद्वितीयः परमास्त्रवेदी।
शिनेर्नप्ता तालमात्रायधोऽयं
महारथो वीतभयः कृतास्त्रः ॥ 5-48-45(33617)
यदा शिनीनामधिपो मयोक्तः
शरैः परान्मेघ इव प्रवर्षन्।
प्रच्छादयिष्यत्यरिहा योधमुख्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-46(33618)
यदा धृतिं कुरुते योत्स्यमानः
स दीर्घबाहुर्दृढधन्वा महात्मा ।
सिंहस्येव गन्धमाघ्राय गावः
संचेष्टन्ते शत्रवोऽस्माद्रणाग्रे ॥ 5-48-47(33619)
स दीर्घबाहुर्दृढधन्वा महात्मा
भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्।
अस्त्रे कृती निपुणः क्षिप्रहस्तो
दिवि स्थितः सूर्य इवाभिभाति ॥ 5-48-48(33620)
चित्रः सूक्ष्मः सुकृतो यादवस्य
अस्त्रे योगो वृष्णिसिंहस्य भूयान्।
यथाविधं योगमाहुः प्रशस्तं
सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥ 5-48-49(33621)
हिरण्मयं श्वेतहयैश्चतुर्भि-
र्यदा युक्तं स्यन्दनं माधवस्य।
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्र-
स्तदा तप्स्यत्यकृतात्मा स मन्दः ॥ 5-48-50(33622)
यदा रथं हेममणिप्रकाशं
श्वेताश्वयुक्तं वानरकेतुमुग्रम्।
दृष्ट्वा ममाप्यास्थितं केशवेन
तदा तप्स्यत्यकृतात्मा स मन्दः ॥ 5-48-51(33623)
यदा मौर्व्यास्तलनिष्पेपमुग्रं
महाशब्दं वज्रनिष्पेपतुल्यम्।
विद्यूयमानस्य महारणे मया
स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः ॥ 5-48-52(33624)
तदा मूढो धृतराष्ट्रस्य पुत्र-
स्तप्ता युद्धे दुर्मतिर्दुःसहायः।
दृष्ट्वा सैन्यं बाणवर्षान्धकारे
प्रभज्यन्तं गोकुलवद्रणाग्रे ॥ 5-48-53(33625)
बलाहकादुच्चरतः सुभीमा-
न्विद्युत्स्फुलिङ्गानिव घोररूपान्।
सहस्रघ्नान्द्विषतां सङ्गरेषु
अस्थिच्छिदो मर्मभिदः सुपुङ्खान्॥ 5-48-54(33626)
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान्
गाण्डीवमुक्तानापततः शिताग्रान्।
हयान्गजान्वर्मिणश्चाददानां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-55(33627)
यदा मन्दः परबाणान्विमुक्ता-
न्ममेषुभिर्हियमाणान्प्रतीपम्।
तिर्यग्विध्य च्छिद्यमानान्पृषत्कै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-56(33628)
यदा विपाठा मद्भुजविप्रमुक्ता
द्विजाः फलानीव महीरुहाग्रात्।
प्रचेतार उत्तमाङ्गानि यूनां
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-57(33629)
यदा द्रष्टा पततः स्यन्दनेभ्यो
महागजेभ्योऽश्वगतान्सुयोधनान्।
शरैर्हतान्पातितांश्चैव रङ्गे
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ 5-48-58(33630)
असंप्राप्तानस्त्रपथं परस्य
यदा द्रष्टा नश्यतो धार्तराष्ट्रान्।
अकुर्वतः कर्म युद्धे समन्ता-
त्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-59(33631)
पदातिसङ्घान्रथसङ्घान्समन्ता-
द्व्यात्ताननः काल इवाततेषुः।
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः
शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥ 5-48-60(33632)
सर्वा दिशः संपतता रथेन
रजोध्वस्तं गाण्डिवेन प्रकृत्तम्।
यदा द्रष्टा स्वबलं संप्रमूढं
तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥ 5-48-61(33633)
कान्दिग्भूतं छिन्नगात्रं विसंज्ञं
दुर्योधनो द्रक्ष्यति सर्वसैन्यम्।
हताश्ववीराग्र्यनरेन्द्रनागं
पिपासितं श्रान्तपत्रं भयार्तम् ॥ 5-48-62(33634)
आर्तस्वरं हन्यमानं हतं च
विकीर्णकेशास्थिकपालसङ्घम्।
प्रजापतेः कर्म यथार्थनिष्ठितं
तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ॥ 5-48-63(33635)
यदा रथे गाण्डिवं वासुदेवं
दिव्यं शङ्खं पाञ्चजन्यं हयांश्च।
तूणावक्षय्यौ देवदत्तं च मां च
दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ॥ 5-48-64(33636)
उद्वर्तयन्दस्युसङ्घान्समेतान्
प्रवर्तयन्युगमन्यद्युगान्ते।
यदा धक्ष्याम्यग्निवत्कौरवेयां-
स्तदा तप्ता धृतराष्ट्रः सपुत्रः॥ 5-48-65(33637)
सभ्राता वै सहसैन्यः सभृत्यो
भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः।
दर्पस्यान्ते निहतो वेपमानः
पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥ 5-48-66(33638)
पूर्वाह्णे मां कृतजप्यं कदाचि-
द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्।
कर्तव्यं ते दुष्करं कर्म पार्थ
योद्धव्यं कते शत्रुभिः सव्यसाचिन् ॥ 5-48-67(33639)
इन्द्रो वा ते हरिवान्वज्रहस्तः
पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्।
सुग्रीवयुक्तेन रथेन वा ते
पश्चात्कृष्णो रक्षतु वासुदेवः ॥ 5-48-68(33640)
वज्रे चाहं वज्रहस्तान्महेन्द्रा-
दस्मिन्युद्धे वासुदेवं सहायम्।
स मे लब्धो दस्युवधाय कृष्णो
मन्ये चेतद्विहितं दैवतेर्मे ॥ 5-48-69(33641)
अयुद्ध्यमानो मनसापि यस्य
जयं कृष्णः पुरुषस्याभिनन्देत्।
एवं सर्वान्स व्यतीयादमित्रान्
सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥ 5-48-70(33642)
स बाहुभ्यां सागरमुत्तितीर्षे-
न्महोदधिं सलिलस्याप्रमेयम्।
तेजस्विनं कृष्णमत्यन्तशूरं
युद्धेन यो वासुदेवं जिगीषेत् ॥ 5-48-71(33643)
गिरिं य इच्छेत्तु तलेन भेत्तुं
शिलोच्चयं श्वेतमतिप्रमाणम्।
तस्यैव पाणिः सनखो विशीर्ये-
न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥ 5-48-72(33644)
अग्निं समिद्धं शमयेद्भुजाभ्यां
चन्द्रं च सूर्यं च निवारयेत।
हरेद्देवानाममृतं प्रसह्य
युद्धेन यो वासुदेवं जिगीषेत्॥ 5-48-73(33645)
यो रुक्मिणीमेकरथेन भोज-
नुत्साद्य राज्ञः समरे प्रसह्य।
उवाह भार्यां यशसा ज्वलन्तीं
यस्यां जज्ञे रौक्मिणेयो महात्मा ॥ 5-48-74(33646)
अयं गान्धारांस्तरसा संप्रमथ्य
जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य
सुदर्शनं वै देवतानां ललामम् ॥ 5-48-75(33647)
अयं कवाटे निजघान पाण्ड्यं
तथा कलिङ्गान्दन्तवक्रं ममर्द।
अनेन दग्धा वर्षपूगान्विनाथा
वाराणसी नगरी संबभूव ॥ 5-48-76(33648)
अयं स्म युद्धे मन्यतेऽन्यैरजेयं
तमेकलव्यं नाम निषादराजम्।
वेगेनैव शैलमभिहत्य जम्भः
शेते स कृष्णेन हतः परासुः ॥ 5-48-77(33649)
तथोग्रसेनस्य सुतं सुदुष्टं
वृष्ण्यन्धकानां मध्यगतं सभास्थम्।
अपातयद्बलदेवद्वितीयो
हत्वा ददौ चोग्रसेनाय राज्यम्॥ 5-48-78(33650)
अयं सौभं योधयामास स्वस्थं
विभीषणं मायया साल्वराजम्।
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं
दोर्भ्यां क एनं विषहेत मर्त्यः ॥ 5-48-79(33651)
प्राग्ज्योतिषं नाम बभूव दुर्गं
पुरं घोरमसुराणामसह्यम्।
महाबलो नरकस्तत्र भौमो
जहारादित्या मणिकुण्डले शुभे ॥ 5-48-80(33652)
न तं देवाः सह शक्रेण शेकुः
समागता युधि मृत्योरभीताः ।
दृष्ट्वा च तं विक्रमं केशवस्य
बलं तथैवास्त्रमवारणीयम् ॥ 5-48-81(33653)
जानन्तोऽस्य प्रकृतिं केशवस्य
न्ययोजयन्दस्युवधाय कृष्णम्।
स तत्कर्म प्रतिशुश्राव दुष्कर-
मैश्वर्यवान्सिद्धिषु वासुदेवः ॥ 5-48-82(33654)
निर्मोचने षट्सहस्राणि हत्वा
संच्छिद्य पाशान्सहसा क्षुरान्तान्।
मुरं हत्वा विनिहत्यौघरक्षो
निर्मोचनं चापि जगाम वीरः ॥ 5-48-83(33655)
तत्रैव तेनास्य बभूव युद्धं
महाबलेनातिबलस्य विष्णोः ।
शेते स कृष्णेन हतः परासु-
र्वातेनेव मथितः कर्णिकारः ॥ 5-48-84(33656)
आहृत्य कृष्णो मणिकुण्डले ते
हत्वा च भौमं नरकं मुर च।
श्रिया वृतो यशसा चैव विद्वा-
न्प्रत्याजगामाप्रतिमप्रभावः ॥ 5-48-85(33657)
अस्मै वराण्यददंस्तत्र देवा
दृष्ट्वा भीमं कर्म कृतं रणे तत्।
श्रमश्च ते युध्यमानस्य न स्या-
दाकाशे चाप्सु च ते क्रमः स्यात् ॥ 5-48-86(33658)
शस्त्राणि गात्रे न च ते क्रमेर-
न्नित्येव कृष्णश्च ततः कृतार्थः ।
एवं रूपे वासुदेवेऽप्रमेये
महाबले गुणसंपत्सदैव ॥ 5-48-87(33659)
तमसह्यं विष्णुमनन्तवीर्य-
माशंसते धार्तराष्ट्रो विजेतुम् ।
सदा ह्येनं तर्कयते दुरात्मा
तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥ 5-48-88(33660)
पर्यागतं मम कृष्णस्य चैव
यो मन्यते कलहं संप्रसह्य।
शक्यं हर्तुं पाण्डवानां ममत्वं
तद्वेदिता संयुगं तत्र गत्वा ॥ 5-48-89(33661)
नमस्कृत्वा शान्तनवाय राज्ञे
द्रोणायाथो सहपुत्राय चैव।
शारद्वतायाप्रतिद्वन्द्विने च
योत्स्याम्यहं राज्यमभीप्समानः ॥ 5-48-90(33662)
धर्मेणाप्तं निधनं तस्य मन्ये
यो योत्स्यते पाण्डवैर्धर्मचारी ।
मिथ्या ग्लहे निर्जिता वै नृशंसैः
संवत्सरान्वै द्वादश राजपुत्राः ॥ 5-48-91(33663)
वासः कृच्छ्रो विहितश्चाप्यरण्ये
दीर्घं कालं चैकमज्ञातवर्षम्।
ते हि कस्माज्जीवतां पाण्डवानां
नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ॥ 5-48-92(33664)
ते चेदस्मान्युध्यमानाञ्जयेयु-
र्देवैर्महेन्द्रप्रमुखैः सहायैः।
धर्मादधर्मश्चरितो गरीयां-
स्ततो ध्रुवं नास्ति कृतं च साधु ॥ 5-48-93(33665)
न चेदिदं पौरुषं कर्मबद्धं
न चेदस्मान्मन्यतेऽसौ विशिष्टान्।
आशंसेऽहं वासुदेवद्वितीयो
दुर्योधनं सानुबन्धं निहन्तुम्॥ 5-48-94(33666)
न चेदिदं कर्म नरेन्द्र वन्ध्यं
न चेद्भवेत्सुकृतं निष्फलं वा।
इदं च तच्चाभिसमीक्ष्य नूनं
पराजयो धार्तराष्ट्रस्य साधुः ॥ 5-48-95(33667)
प्रत्यक्षं वः कुरवो यद्ब्रवीमि
युद्ध्यमाना धार्तराष्ट्रा न सन्ति।
अन्यत्र युद्धात्कुरवो यदि स्यु-
र्न युद्धे वै शेष इहास्ति कश्चित्॥ 5-48-96(33668)
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा-
न्राज्यं कुरूणामवजेता समग्रम्।
यद्वः कार्यं तत्कुरुध्वं यथास्व-
मिष्टान्दरानात्मभोगान्भजध्वम् ॥ 5-48-97(33669)
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा
बहुश्रुताः शीलवन्तः कुलीनाः।
सांवत्सरा ज्योतिषि चाभियुक्ता
नक्षत्रयोगेषु च निश्चयज्ञाः ॥ 5-48-98(33670)
उच्चावचं दैवयुक्तं रहस्यं
दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।
क्षयं महान्तं कुरुसृञ़्जयानां
निवेदयन्ते पाण्डवानां जयं च ॥ 5-48-99(33671)
यथा हि नो मन्यतेऽजातशत्रुः
संसिद्धार्थो द्विपतां निग्रहाय।
जनार्दनश्चाप्यपरोक्षविद्यो
न संशयं पश्यति वृष्णिसिंहः ॥ 5-48-100(33672)
अहं तथैनं खलु भाविरूपं
पश्यामि बुद्धया स्वयमप्रमत्तः।
दृष्टिश्च मे न व्यथते पुराणी
संयुध्यमाना धार्तराष्ट्रा न सन्ति ॥ 5-48-101(33673)
अनालब्धं जृम्भति गाण्डिवं धनु-
रनाहता कम्पति मे धनुर्ज्या।
बाणाश्च मे तूणमुखाद्विसृत्य
मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥ 5-48-102(33674)
खङ्गः कोशान्निःसरति प्रसन्नो
हित्वेव जीर्णासुरगस्त्वचं स्वाम्।
ध्वजे वाचो रौद्ररूपा भवन्ति
कदा रथो योक्ष्यते ते किरीटिन् ॥ 5-48-103(33675)
गोमायुसङ्घाश्च नदन्ति रात्रौ
रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्।
मृगाः श्रृगालाः शितिकण्ठाश्च काका
गृध्रा बकाश्चैव तरक्षवश्च॥ 5-48-104(33676)
सुवर्णपत्राश्च पतन्ति पञ्चा-
दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।
अहं ह्येकः पार्थिवान्सर्वयोधान्
शरान्वर्पन्मृत्युलोकं नयेयम् ॥ 5-48-105(33677)
समादेदानः पृथगस्त्रमार्गा-
न्यथाप्रिरिद्धो गहनं निदाघे।
स्थूणाकर्णं पाशुपतं महास्त्रं
ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ॥ 5-48-106(33678)
वधे धृतो वेगवतः प्रमुञ्च-
न्नाहं प्रजाः किञ्चिदिहावशिष्ये ।
शान्तिं लप्स्ये परमो ह्येप भावः
स्थिरो मम ब्रूहि गावल्गणे तान् ॥ 5-48-107(33679)
ये वैजय्याः समरे सूत लब्ध्वा
देवानपीन्द्रग्रमुखान्समेतात्।
तैर्मन्मते कलहं संप्रसह्य
स धार्तराष्ट्रः पश्यत मोहमस्य ॥ 5-48-108(33680)
वृद्धो भीष्मः शान्तनवः कृपश्च
द्रोणः सपुत्रो विदुरश्च धीमान्।
एते सर्वे यद्वदन्ते तदस्तु
आयुष्मन्तः कुरवः सन्तु सर्वे ॥ ॥ 5-48-109(33681)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टचत्वारिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-48-8 कर्म पापम्। अनिर्विष्टं अनुपभुक्तम्। अश्विभ्यां अश्विपुत्राभ्याम् ॥ 5-48-9 अपध्यानात अपकारचिन्तनमात्रात् । गां पृथ्वीम् ॥ 5-48-12 त्वं एतावत्कुर्वित्याह ह्रियेति। यान् लोकान् अन्यायवृत्तिर्धार्तराष्ट्रोऽध्यतिष्ठत् तान् ह्रीप्रभृतिनिर्गुणैरुपलक्षिते पाण्डवे अनुरक्तान् कुरु ॥ 5-48-13 मायया कपटेन उपधीयन्ते उपस्थाप्यन्ते इति मायोपधश्चलवादः तम्। प्रतिपन्नः प्राप्तः प्रणिधानादिभिरुपेतः सत्यं ब्रुवंश्च नः नृपः अतिवेलं क्लिश्यमानोपि तितिक्षमाण एवास्ते इति शेषः ॥ 5-48-14 क्रोध अवस्त्रष्टा उत्स्रक्ष्यति। अन्वतप्त्यत् शोचिष्यति। आर्षोलकारव्यत्ययः ॥ 5-48-15 कृष्णवर्त्मा दाहेन कृष्णीकृतभूभाग इति प्राञ्चः। दग्धा धक्ष्यति ॥ 5-48-22 तृणप्रायं तृणगृहमयं ग्रामम्। परासिक्तं दूरे निरस्तम् ॥ 5-48-24 वराङ्गानां शिरसाम्। उपासङ्गान् उच्चयान् । दक्षिणेन कुशलेन अनायासेनेति यावत्। आचरेत् कुर्यात्। रथिनः योधान्। प्रचेता कूटीकरिष्यति ॥ 5-48-25 दुःखशय्यां अशेतेत्युत्तरं तां यदा स्मरिष्यतीति शेषः ॥ 5-48-28 सुवर्णस्य तारो दीर्घतन्तुः तम्। अतिवेगादलातचक्रवत्सुवर्णरेखातुल्यमित्यर्थ- ॥ 5-48-31 आयतः आगच्छतः ॥ 5-48-34 क्षेप्तारः क्षेप्स्यन्ति ॥ 5-48-39 धारयेयुः जीवेयुः ॥ 5-48-40 वरूथी रथगुप्तिमान् ॥ 5-48-43 स वृष्णिसिंहः कृष्णाः येषामग्रणीः स्यात् तेभ्योऽन्ये तं न सहेरन् ॥ 5-48-44 राज्यं च मा वृणीष्व मा प्रार्थयस्व इति ब्रूयाः । दुर्योधनं प्रतीत्यर्थात्। यतः वयं युद्धेऽद्वितयं सहायं सत्यकिं प्रवृणीम वृतवन्त- ॥ 5-48-49 वृष्णिसिंहस्य कृष्णस्य यथाविधं यादृक्प्रकारं योगमाहुः तैः सर्वैर्गुणैः सात्यकिरुपेतः ॥ 5-48-55 आददानान् ग्रसमानान् ॥ 5-48-57 प्रचेतारः राशीकरिष्यन्ति ॥ 5-48-59 अस्त्रपथं असंप्राप्तान् । अस्त्रं दृष्ट्वैव नश्यत इत्यर्थः 5-48-60 प्रणोत्स्यामि दूरीकरिष्यामि ॥ 5-48-62 कान्दिग्भूतं भयेन पलायितम्। श्रान्तपत्रं श्रान्तवाहनम् ॥ 5-48-63 यथा वाजपेये प्रजापतिदैवत्याः सप्तदश पशवो विशस्यन्ते तद्वद्बहूनामिहापि विशसनं कृतम् ॥ 5-48-64 देवदत्तं अर्जुनस्य शङ्खम् ॥ 5-48-67 उदूकान्ते संध्यावन्दनाचमनान्ते ॥ 5-48-71 सागरं सगरैर्वर्धितम्। सलिलस्य महोदधिं जलसमुद्रम् ॥ 5-48-75 सुदर्शनं नाम राजानम्। ललामं ललामभूतः कृष्णः ॥ 5-48-76 कवाटे नगरभेदे ॥ 5-48-77 अयं सुयोधनः। यथा जम्भो दैत्यः शैलं वेगेन अभिहत्य हतः शेते तद्वत् ॥ 5-48-80 भौमो भूमिपुत्रः ॥ 5-48-83 निर्मिचने नगरे। क्षुरान्तान् तीक्ष्णधारान् लोहमयानित्यर्थः ॥ 5-48-93 साधु कृतं सत्कर्म नास्ति। निष्पलत्वात् वृथैव धर्म इत्यर्थः ॥ 5-48-94 कर्मबद्धं न मन्यते चेदित्योकृष्य योज्यम् ॥ 5-48-95 इदं राज्यस्याप्रदानं इदानींतनम्। तच्च राज्यात् निःसारणं तदार्नीतनं अभिसमीक्ष्य आलोच्य। पापवशात्पराजय एव तस्येत्यर्थः ॥ 5-48-99 मृगचक्रा मृगसमूहाः ॥ 5-48-108 विजयः कर्म येषां ते वैजय्याः। देवानपि लब्ध्वा विजयवन्त एवेत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.